Menu


।। ओ३म्‌ ।।

सांख्यदर्शनं ब्रह्ममुनिभाष्योपेतम्‌

तत्र

प्रथमोऽध्यायः

अथ त्रिविधदुःखात्यन्तनिर्वृत्तिरत्यन्तपुरुषार्थः ।।१।।

          (अथ) अथ शब्दोऽधिकारार्थः, इदानीं (त्रिविधदुःखात्यन्तनिवृत्तिः) त्रिविधस्य त्रिप्रकारस्यआध्यात्मिकाधिभौतिकाधिदैविकभेदान्वितस्य दुःखस्यात्यन्तनिवृत्तिरन-परान्तनिवृत्तिः (अत्यन्तपुरुषार्थः) परमः पुरुषार्थः परमं पौरुषं पुरुषत्वं मानवस्यमानवजीवनस्य परमं साफल्यं यदस्ति तदत्राधिक्रियते ।।१।।

          तदुपायचिन्तनायां दृष्टसाधनस्यापर्याप्तत्वं दर्श्यते

न दृष्टात्‌ तत्सिद्धिर्निवृत्तेरप्यनुवृत्तिदर्शनात्‌* ।।२।।

          (दृष्टात्‌ तत्सिद्धिः-न) दृष्टात्‌ साधनात्‌ खलु लोके प्राप्यमाणात्‌ साधनात्‌ तथाभूतनिवृत्तिसिद्धिर्न भवति न भवितुमर्हति । यतः (निवृत्तेः-अपि-अनुवृत्तिदर्शनात्‌) कस्यचिन्निवृत्तेरनन्तरमपि पुनरनुवृत्तिर्दृश्यते हीत्यतः ।।२।।

          दृष्टसाधनाद्‌ दुःखप्रतीकारे खलु

प्रात्याहिकक्षुत्प्रतीकारवत्तत्प्रतीकारचेष्टनात्‌ पुरुषार्थत्वम्‌ ।।३।।

          (प्रात्याहिकक्षुत्प्रतीकारवत्‌) प्रत्यहं यथा क्षुत्प्रतीकारो भोजनात्‌ क्रियते तद्वत्‌ (प्रतीकारचेष्टनात्‌) तस्य त्रिविधदुःखस्य प्रतीकारव्यापारात्‌ (पुरुषार्थत्वम्‌) पुरुषार्थता भवतु न त्वत्यन्तपुरुषार्थतेति यावत्‌ ।।३।।

          तत्र च

सर्वासम्भवात्‌ सम्भवेऽपि सत्त्वासम्भवाद्धेयः प्रमाणकुशलैः ।।४।।

          (सर्वासम्भवात्‌) दृष्टसाधनाद्‌ दुःखप्रतीकाररूपायां पुरुषार्थतायां कस्यचिदेकस्यैव दुःखस्य प्रतीकारो भविष्यति यतस्तस्मादेकस्माद्‌दृष्टसाधनात्‌ तत्सम्बद्धमेव दुःखं निवर्तिष्यते, नहि सर्वदुःखनिवृत्तिसम्भवस्तस्मात्‌ (सम्भवे-अपि) अथ च बहुविधदृष्टसाधनसमुदायात्‌ सर्वदुःखप्रतीकारसम्भवेऽपि (सत्त्वासम्भवात्‌) सत्त्वस्य वास्तविकदुःखप्रतीकारस्य नितान्तदुःखनिवृत्तिरूपस्य मोक्षस्यासम्भवात्‌ । उक्तं हि यथा ‘‘परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः’’ (योग० २.१५) तस्मात्‌ (प्रमाणकुशलैः-हेयः) प्रकृष्ट मीयते येन तत्प्रमाणं समतोलनं तत्र कुशलैः समतोलनकुशलैर्दूरदर्शिभिर्विवेकिभिः स एष दृष्टसाधनगणाद्‌ दुःखप्रतीकारस्त्याज्यो नादरणीयः ।।४।।

          अपरं च

उत्कर्षादपि मोक्षस्य सर्वोत्कर्षश्रुतेः ।।५।।

          (उत्कर्षात्‌-अपि) शास्त्रविहितयज्ञदिदृष्टसाधनानुष्ठानाद्‌ भवतूत्कर्षः, परन्तूत्कर्षाद्धेतोरपि मोक्षे हि खलूत्कर्षो न तथा यज्ञादिदृष्टसाधनसाध्ये दुःखनिवृत्तिरूपे पुरुषार्थे । यतः (मोक्षस्य सर्वोत्कर्षश्रुतेः) मोक्षस्य हि सर्वोत्कर्षविषयिका श्रुतिरस्तीति हेतोः ‘‘अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः’’ (छान्दो० ८.१२.१) ‘‘एषाऽस्य परमा गतिरेषाऽस्य परमा सम्पत्‌’’ (बृह० ६.३.३२) तस्माद्‌ दुःखात्यन्तनिवृत्तिरूपाय मोक्षाय तदेतद्‌ यज्ञादिदृष्टसाधनमुपादेयं न, किन्तु यमनियमाद्यष्टाङ्गयोगानुष्ठानमदृष्ट- साधनमुपादेयम्‌ ।।५।।

          भवतु मोक्षस्य सर्वोत्कृष्टत्वम्‌, मोक्षो भविष्यति हि बद्धस्य तर्हि बद्धस्य मोक्षे

अविशेषश्चोभयोः ।।६।।

          (उभयोः) दृष्टादृष्टयोः साधनयोः (च) अपि (अविशेषः) अभेदोऽस्ति नास्ति भेदः साधनत्वाद्‌ यथा यज्ञादिदृष्टं साधनं तथैव योगाभ्यासश्रवणादिकमदृष्टं साधनमुभयोः साधनसाम्यमस्ति हि, साधनसाम्याददृष्टसाधनादपि बद्धस्य विमोक्षो न भवेदिति पूर्वपक्षः । अनिरुद्धवृत्तौ विज्ञानभिक्षुभाष्ये हरिप्रसादवैदिकवृत्तौ च सूत्रमिदन्यथाव्याख्यातं तत्र पूर्वापरसङ्गतेरभावोऽस्मद्‌भाष्ये पूर्वापरसाङ्गत्यं प्रत्यक्षम्‌ ।।६।।

          अत्रोच्यते

न स्वभावतो बद्धस्य मोक्षसाधनोपदेशविधिः ।।७।।

          (स्वभावतः-बद्धस्य) स्वरूपतो बद्धस्य (मोक्षसाधनोपदेशविधिः-न) मोक्षसाधनोपदेशविधानं न भवति, अस्ति हि शास्त्रेषु मोक्षसाधनोपदेशः ‘‘तमेव विदित्वाऽति मृत्युमेति’’ (यजु० ३१.१८) ‘‘तमेव विदित्वा न बिभाय मृत्योः’’ (अथर्व० १०.८.४४) ‘‘भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्‌ दृष्टे परावरे ।।’ (मुण्डको० २.२.८) ‘‘भूतेषु भूतेषु विचित्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति’’ (केनो० २.५) तस्माद्‌ यदुक्तमुभयोर्दृष्टादृष्टयोः साधनयोर्विशेषो न बद्धस्य जीवात्मनोऽदृष्टसाधनाद्‌ योगाभ्यासश्रवणाद्यनुष्ठानादपि मोक्षो न भविष्यतीति न युक्तं यतो जीवात्मा न स्वभावतो बद्धः किन्तु निमित्ततो बद्धः खलु सः, तथाभूतं बन्धननिमित्तमपनेतुं योगाभ्यासाद्यदृष्टसाधनं समर्थम्‌ ।।७।।

          स्वभावतो बद्धस्य मोक्षसाधनोपदेशविधौ का हानिः । अत्रोच्यते

स्वभावस्यानपायित्वादननुष्ठानलक्षणमप्रामाण्यम्‌ ।।८।।

          (स्वभावस्य-अनपायित्वात्‌) स्वभावो भवत्यनपायी, यो यः स्वभावो यस्य यस्य द्रव्यस्य भवति स न तस्माद्‌ द्रव्यादपैति, न हि तद्‌द्रव्यं परित्यजति वा स्वभावस्य यावद्‌द्रव्यभावित्वात्‌, तस्मात्‌ स्वभावतो बद्धस्य (अनुनुष्ठानलक्षणमप्रामाण्यम्‌) मोक्षविधानमननुष्ठानावकाशं सदप्रामाण्यं स्यादप्रामाण्यदोषमाप्नुयात्‌ ।।८।।

          तथा च

नाशक्योपदेशविधिरूपदिष्टेऽप्यनुपदेशः ।।९।।

          (अशक्योपदेशविधिः-न) अशक्यकार्यस्योपदेशविधानं नोचितं यतः (उपदिष्टे-अपि-अनुपदेशः) उपदिष्टे सत्यपि तस्यानुपदेश एवानुष्ठानासम्भवाद्‌ भवति, तस्माज्जीवात्मा न स्वभावतो बद्धः किन्तु तस्य निमित्ततो बद्धस्य योगाभ्यासश्रवणाद्यदृष्टसाधनानुष्ठानाद्‌ भविष्यति मोक्ष इति कथनं समीचीनं मोक्षोपदेशसार्थक्यं च ।।९।।

          शङ्कयित्वा समाधत्ते सूत्रद्वयेन

शुक्लपटवद्‌बीजवच्चेत्‌ ।।१०।।

शक्त्युद्‌भवानुद्‌भवाभ्यां नाशक्योपदेशः ।।११।।

          अनयोः सूत्रयोरेकवाक्यताऽस्ति

          (शुक्लपटवत्‌-बीजवत्‌-चेत्‌) शुक्लपटस्य यथा रागेण स्वाभाविक शुक्लत्वं हीयते बीजस्य वा यथाऽङ्‌कुरप्रादुर्भावादादितो वर्तमानं बीजस्वरूपं हीयते तथैव जीवात्मनोऽपि स्वाभाविको बन्धो हीयेतेति चेदुच्येत तर्हि (शक्त्युद्‌भवानुद्‌भवाभ्याम्‌) शुक्लपटे रागग्रहणस्य बीजे चाङ्‌कुरप्रादुर्भावस्य शक्तिरस्ति स्वाभाविकी, नह्यस्वाभाविकी केवलं तस्याशक्तेरुद्‌भवोऽनुद्‌भवश्च दृश्यते । शुक्लपटे रागग्रहणशक्तेः पूर्वतो विद्यमानत्वात्‌ तस्या रागप्रदानेनोद्‌भवो जायते, इत्थमेव बीजेऽङ्‌कुरप्रादुर्भावशक्तेः पूर्वतोविद्यमानत्वात्‌ तस्या अंकुरप्रादुर्भावादुद्‌भवो भवति पूर्वं च प्रादुर्भावादनुद्‌भूता वर्तते हि, यद्येवं त स्यात्‌ तर्हि शुक्लपटस्य शुक्लपटत्वं बीजस्य च बीजत्वं व्यर्थं भवेत्‌ । तस्मात्‌ (अशक्योपदेशः-न) शास्त्रेऽशक्योपदेशो न भवति । बन्धस्तु जीवात्मनो मोक्षोपदेशो नाशक्य इति सिद्धम्‌ । अत्र ‘‘शक्त्युद्‌भवानुद्‌भवाभ्यां’’ उद्‌भवानुद्‌भवशब्दौ प्रयुक्तौ, उद्‌भवः प्रादुर्भाव आविर्भावो वा तथा अनुद्‌भवः- अप्रादुर्भावोऽनाविर्भावो वाइत्यर्थस्वारस्यं परित्यज्यखल्वनिरुद्धवृत्तौ अनुद्‌भवःइत्यस्य अभिभवःविज्ञानभिक्षुभाष्ये तस्यैव तिरोभावःइति अर्थं विधाय दग्धबीजादप्यङ्‌कुरोत्पादो योगिसङ्कल्पाद्‌ भवतीत्यप्रासङ्गिकी योगिसङ्कल्पना कृता सा खल्वयुक्तैव । नहि अनुद्‌भवशब्द उद्‌भव शब्दस्य प्रतियोगी, उद्‌भवस्तु प्रादुर्भाव आविर्भावो वा भवति अनुद्‌भवःइत्यस्य तत्प्रतियोगिनाऽर्थेन भवितव्यं न हि अभिभवः’ ‘तिरोभावःवा तत्प्रतियोगी किन्तु